________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२२२],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२२२]
दीप
श्रीआचा- दातु द्विधा-जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुर्ख जलस्थलनिर्गम- विमो०८ रावृत्तिः प्रवेशं यथा भरुकच्छं तामलिप्ती वा, आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेश यात्रा- .
उद्देशकः६ | समागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमि-13/ (शी०)
त्यर्थः, एतेष्वेसानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-संस्तारकाय प्रासुकानि दर्भवीरणादिकानि कचिद्रामादौ ॥२८५॥
तृणस्वामिनमशुपिराणि तृणानि याचित्वा स तान्यादायकान्ते-गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्याण्ड तस्मिन् , अल्पशब्दोऽत्राभावे । वर्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामा
कादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याये-अधस्तनोपरितनावश्याय६ विमुड्वर्जिते, तथाऽल्पोदके-भीमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिगः-पिपी-13 |लिकासन्तानका पनको-भूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराप्कायाकृता मृत्तिका मर्केटसन्तानको-छूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत्, किं कृत्वा तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमूज्य २, अत्रापि वीप्सया भूशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारोऽत्रापि समये अपिश- ॥२८५॥ न्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं|
अनुक्रम २३५]]
15
~574~#