________________
आगम
(०१)
प्रत
सूत्रांक
[२१७]
दीप
अनुक्रम
[२३०]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [ ५ ], मूलं [२१७],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः । तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातं, साप्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह- 'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्तः - अनभिहितः प्रतिज्ञप्तस्य- वैयावृत्य करणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्ष्य साधम्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ ? - 'करणाय' तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात् न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानीं प्रतिज्ञा विशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति तद्यथा - ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि - उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहत्य--गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाsपर आहृत्य प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहत्य प्रतिज्ञामेवम्भूतां तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्या| हारादिकमाहृतं चान्येन स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां तद्यथा-नान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात् न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह- 'एवम् उक्तविधिना 'स' भिक्षु| स्वगत्ततस्यः शरीरादिनिष्पिपासुः यथाकीर्त्तितमेव धर्म्मम् उक्तस्वरूपं सम्यगभिजानन्-आसेवनापरिज्ञया आसेवमानः, | तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तो वा अ
For Pantry Use Only
~ 567 ~#