________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [५], मूलं [१९५],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१९५]]
GAROTOCOASARDAN
दीप अनुक्रम [२०८]
संयमानुष्ठानरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति निहो न स्त्रिहोऽस्त्रिहा-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरिलो |ऽपीति, तथा चला अनियतविहारित्वात्, तथा संयमावहिनितंगा लेश्या-अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽवहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने ब्रजेत् परिव्रजेत्, न कचियतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिजजेदित्याह-संख्याय' अवधार्य 'पेशल' शोभनं 'धर्म' अविपरीतार्थ दर्शनं दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान् , स च कषायोपशमात् क्षयादा, परिः-समन्तानिवृतः-शीतीभूतो । यस्त्व|सल्यातवान् पेशलं धर्म मिथ्यादृष्टिरसी न निर्वातीति दर्शयितुमाह-इतिहेती यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः॥ सङ्गवान्न निर्वाति तस्मात् 'सङ्गं मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्धैर्ग्रथिता अवबद्धा विषण्णा अन्धसङ्गे निमनाः कामः-इच्छामदनरुपैराकान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह-यस्मात्कामाद्यासकचेतसः स्वजनधनधान्यादिमूच्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्मादू सक्षात्-संयमानिसङ्गात्मकात् 'नो परिचित्रसेत्' न संयमानुष्ठानादिभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति । कस्य पुनः संयमान परिवित्रसनं सम्भाव्यत इत्याह-यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गा:-आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात् प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः 'सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः-ये
~519~#