________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [9], मूलं [१९५],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः (शी०)
धुता०६ उद्देशका५
प्रत
सूत्रांक
[१९५]
॥२५७॥
दीप अनुक्रम [२०८]
भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शु- श्रूर्षु आशातयेत्-हीलयेद् , यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवतेति, अतस्तदाशातनां वर्जयन धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वानो आशातयेद्-बाधयेत् , त-1 देवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्म कथयेदिति, तद्यथा-यदि लौकिककुपावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि था ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात्, उक्तं च-"जे उ दाणं पसंसंति, वहमिच्छंति पाणिणं । जे उ णं पडिसेहिंति, वित्तिच्छे करिति ते ॥१॥" तस्मात्तदानावेटतडागादिविधिप्रतिषेधच्युदासेन यथावस्थितं दानं शुद्ध प्ररूपयेत् सायद्यानुष्ठानं चेति, एवं चवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतदृष्टान्तद्वारेण दर्शयति-यथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां धधकानां च |तदध्यवसायविनिवत्तेनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् कांचन प्रत्राजयति काश्चन श्रावकान् विधत्ते काश्चन सम्यग्दर्शनयुजः करोति, केषाश्चित्प्रकृतिभद्रकतामापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह-एवं मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन
ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् । ये पैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥१॥
॥२५७॥
~518~#