________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वत्ति:
प्रत
सूत्रांक
[१८८]
दीप अनुक्रम २०१]
च्छेत् ॥ १॥" द्वितीयस्त्वाह-नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते?, त्वमपि च शुकवत्याठितो निरूहापोह इत्यादीन्यन्यान्यपि दुहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वीद्धत्यमाविर्भावयन् भापते, उक्तं च-"अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वा-1 ड्ययमित इति खादत्यङ्गानि दर्पण ॥ १॥ क्रीडनकमीश्वराणां कुफुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुलको नयति ॥२॥" इत्यादि, पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारुहंति" त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरःकम्पनादिना वा प्रतिवचनं ददति । किं च-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मचयमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भसितास्तामाज्ञां-तीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते, यदिवा अपवादमालम्ब्य वर्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं” इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं बदन्तीति सम्बन्धः । किमर्थं तर्हि |
१ कुर्यानिवानस्य अग्लान्या समाहितं.
RRC
Swatanaitram.org
~503-2