________________
आगम (०१)
प्रत
सूत्रांक
[१८८]
दीप
अनुक्रम
[२०१]
श्रीआचाराङ्गवृत्तिः
(fto)
॥ २४९ ॥
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८], निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
'अनुपूर्वेण' क्रमेण 'वाचिताः' पाठिताः, तत्र कालिकमहः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेलावर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा - युगमात्रदृष्टिना गन्तव्यम् कूर्म्मवत्सङ्कुचिताङ्गेन भाव्यमित्याद्येवं शिक्षां ग्राहिता वाचिताः - अध्यापिताः, कैरिति दर्शयति- तैर्महावीरैः- तीर्थकरैर्गणधराचार्यादिभिः किम्भूतैः १-प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम् आचार्यादीनाम् 'अन्तिके' स मीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, 'उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रचलमोहोदयापनी तसदुपदेशोत्कटमदत्वात् त्यक्त्वोपशमं स च द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्योपशमः कर्तकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा-आक्षे पण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनश्वतेति तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽथाप्युपर्येव लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्यं' परुषतां 'समाददति गृह्णन्ति तद्यथा परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व इति उक्तं च- "पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मलमुख्ये च माइगेवान्तरं ग
For Pantry Use Onl
~502~#
धुता० ६
उद्देशकः४
॥ २४९ ॥
anditary.org