________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [3], मूलं [१८७],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
--
प्रत
सूत्रांक
.50
[१८७]
4
2
दीप अनुक्रम [२००]
अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहेतर्भवत्येवमसावपि धर्मः 'आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिर्षटितोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यतयाऽसन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचना सन्ति ?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह–'ते' साधवो भावसन्धानोयताः संयमारतेः प्रणोदका| मोक्षनेदिष्ठा भोगाननवकान्तो धमें सम्यगुत्थानवन्तः स्युरिति, एतदुत्तरत्रापि योज्यम् , तथा प्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वादयिताः सर्वलोकानां, तथा 'मेधा-| विनों' मर्यादाव्यवस्थिताः 'पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्माचरणाय समुत्थिता भवन्तीति । ये
पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युः ते तथाभूता आचार्यादिभिः सकाम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतदर्शयितुमाह-'एवम् उक्तविधिना 'तेषाम् अपरिकर्मितमतीनां 'भगवतो
वीरवर्द्धमानस्वामिनो धर्म सम्यगनुत्थाने सति तसरिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, | अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्य पोतः-शिशुः द्विजपोतः स यथा तेन द्विजेन गर्भप्रसवात् प्रभृत्यण्डकोच्छूनो
छूनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुलक्ष्य स्वैरित्वाद्यथा कथश्चिक्रियासु प्रवर्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्री, तत्र ज्येष्ठो धर्मयो
%25%
%
4
~499~#