________________
आगम
(०१)
प्रत
सूत्रांक
[१८७]
दीप
अनुक्रम [२००]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८७],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः ( शी०)
॥ २४८ ॥
पाचार्यसमीपे संसारासारतामवगम्य प्रवाज, क्रमेण चाधीताचारादिशास्त्रोऽयगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तद्बहिः तृतीया चतुष्के चतुर्थी शून्यगृहे प श्रमी श्मशाने, तत्र पञ्चम भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच- मम ज्यायान् ४ भ्राता कास्ते ?, साधुभिरभाणि किं तेन?, स आह-प्रव्रजाम्यहं, आचार्येणोको-गृहाण तावत् प्रव्रज्यां पुनर्ब्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिपतुकाम इति, असावाह तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च ५ षिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन प्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो वातेति इतरो देवतयाssगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलकी बहिर्निश्चिक्षेप, ततस्तज्यायान् हृदयेनैव देवतामाह- किमित्ययमज्ञस्त्वया कदर्शितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत् जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यो पुनर्नवीकर्नु इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्त्तनं सापायमित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्त्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथो क्तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातापितृभ्यामनुपालयते एवमाचा
For Parts Only
~500~#
धुता० ६ उद्देशकः३
॥ २४८ ॥
www.sinditary.org