________________
आगम (०१)
प्रत
सूत्रांक
[१८७]
दीप
अनुक्रम [२००]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८७],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
॥ २४७ ॥
श्रीआचारित्राभिमुखः समुत्थितोऽसावतस्तमरतिः कथं विधारयेदिति । स चैवम्भूतो न केवलमात्मनस्त्राता परेषामप्यरतिविधारकत्वात् त्राणायेत्येतदर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्वासी द्वीपश्चाश्वासद्वीपो यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप 4 आश्वासद्वीपः, तत्र नदीसमुद्र बहुमध्यप्रदेशे भिन्नवोहित्यादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तं द्वीपमसन्दीनमुदन्यदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समा+ श्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्यु दुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति यथा ह्यसौ स्थ- 5 पुटाद्यावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचित्समुद्रायन्तर्वर्त्तिनामाश्वासकारी च भ विति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेश दानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते तद्यथा-भावद्वीपः सम्यत्ववं तच्च प्रतिपातित्वादोपशमिकं क्षायोपश मिकं च संदीनो भावद्वीपः क्षायिकं त्वसन्दीन इति तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्म्म संदधानः समुत्थितः सन्नरतेदुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चोदयेत् किम्भूतोऽसौ धम्र्मो ? यत्सन्धानाय समुत्थित इति,
राङ्गवृत्तिः (शी०)
Jain Estication tytumanl
For Parts Onl
~498~#
धुता० ६ उद्देशकः २
॥ २४७ ॥
www.indiary.org