________________
आगम
(०१)
प्रत
सूत्रांक
[१८४]
दीप
अनुक्रम [१९७]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८४], निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्टो धीरे अहियासिजासि तिमि (सू० १८४ ) ॥ धूताध्ययने द्वितीयोदेशकः ॥ ६-२ ॥
त्यक्त्वा स परहकृतां विस्रोतसिकां परीषहापादितान् स्पर्शान- दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः !- सम्यग् इतं गतं दर्शनं यस्य स समितदर्शनः सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह- 'भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धम्मों येषां तेनागमनधर्माण:, यथाऽऽरोपित प्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं च- आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्मं सम्यगनुपालयेत् तीर्थकर एवमाहेति यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्व पारक्यमित्यतस्त महमाज्ञया- तीर्थकरोपदेशेन सम्यकरोमीति, किमित्याज्ञया धम्र्मोऽनुपालयत इत्यत आह- 'एषः अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च - 'अत्र' अस्मिन् कर्म्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोपयन' क्षपयन् धर्मे चरेदिति किं चापरं कुर्यादित्याह आदीयत इत्यादानीयं कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्म्म धुननासमर्थं तपस्तद्वाह्यमधिकृत्योच्यते - 'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति - एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशे
Jan Estication anal
For Parts Only
~489 ~#