SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम (०१) "आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [9], मूलं [१६३],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१६३] दीप अनुक्रम साधयेत् , सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति २ । पुनरपि विचित्रभावनामाह-कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं | पौगलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरमाणूपशमतया शङ्करविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम् , अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुद्देशरज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयोर्लो-|| कान्तद्वयगतयोर्वेक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतन्द्रावयति, यथा-विनसापरिणामेन शीघगतित्वात् परमाणोरेकसमयेनासङ्ख्येयप्रदेशातिक्रमणं, यथा हि अङ्गुलिद्रव्यमेकसमयेनासङ्ख्येयानध्याकाशप्रदेशानतिलक्ष्यति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहियधनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽङ्गलमात्रमपि क्षेत्रमसख्ययसमयातिकमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपयेतेति यत्किश्चिदेतत् ४ । साम्प्रतं भङ्गाकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यलेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुरुप्रेक्षया-पयोलोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५। साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किश्चिद्वस्तु मन्यमानस्य शङ्का स्वादग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोन [१७६] द्र wwwandltimaryam ~451-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy