SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१६३] दीप अनुक्रम [१७६] श्रीआचारानवृत्तिः (शी०) ।। २२३ ॥ Jain Esticatos “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [५] मूलं [ १६३ ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रद्धा-धच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य 'समनुज्ञस्य' संविघ्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रत्रज्यार्हस्य 'संप्रव्रजतः' सम्यक्प्रत्रज्यामभ्युपगच्छतो विचिकित्सा- शङ्का भवेत्, तत्रैतस्य सम्यग्जीवादिपदार्थावधारणाशतस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यं निःशङ्कं यजिनैः प्रवेदितमिति, तदेवं प्रब्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवे दितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विचित्रपरिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य 'एकदा' इत्युत्तरकालमपि शङ्काकाङ्गाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकर भाषिते शङ्काद्युत्पद्यत इति १ । कस्यचित्तु प्रब्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनता व्याकुलितमतेः 'एकदेति मिथ्यात्यांशोदयेऽसम्यगिति भवति, तथाहि असौ सर्वनय समूहाभिप्रायतया अनन्तधर्म्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं मित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि अप्रच्युतानुपन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यत्मतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति न पुनर्वि वेचयति यथा अनन्तधर्म्माध्यासितं वस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तं च- "सर्वैर्नवैर्नियतनैगमसङ्ग्रहाद्यैरेकैकशो विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्ते', श्रद्धेयमेव वचनं न तु हेतुगम्यम् ॥ १ ॥" इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्त्तते, एकं च धर्म For Pantry O ~ 450 ~# | लोक० ५ उद्देशका ॥ २२३ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy