________________
आगम
(०१)
प्रत
सूत्रांक [१५६]
दीप
अनुक्रम [१६९ ]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५६], निर्युक्ति: [ २४९]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २१४ ॥
करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तर्ह्यज्ञानतया पटुकायोपमर्दनं कुर्वाणाः संयमवाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्त्तित्वात् प्रवचनहीलना, अपि च- प्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशसुचिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात् तच्च गच्छगतस्य न सम्भवति, गुर्वाद्युपदेशसम्भवात्, तदुक्तं च- "अकोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावमि ॥ १ ॥" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, ॐ गच्छनिर्गतस्य पुनर्दोषा एव केवला इति उक्तं च - " साहंमिएहिं संमुज्जएहिं एगामिओ अ जो विहरे । आयंकपउरयाए छक्कायवहंमि आवडइ || १ || ऐगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महन्वय तम्हा सविइजए गमणं ॥ २ ॥" इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्न परमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेका किविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्म्मपरिणतेरशक्यमस्ति, तथाहि
१ आक्रोशबधमारणधर्म अंशानां बालसुलभानाम् । जाभं मन्यते धीरः ययोत्तराणामभावे ॥ १ ॥ २ साधर्मिकेषु सम्यगुद्यतेषु एकाकी यो विहरेत् । आतप्रचुरतायां षट्रायवधे स पतति ॥ १ ॥ ३ एकाकिनो दोषाः स्त्री वा तथैव प्रत्यनीकः । मिक्षाऽविशोषिः महात्रतेषु तस्मात्सद्वितीयेन गमनम् ॥ २ ॥
Jan Education International
For Par Use Only
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~432~#
लोक० ५
उद्देशकः४
॥ २१४ ॥
wwwbrary.org