________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५६],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१५६]
दीप अनुक्रम [१६९]
असति बुद्ध्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां द विहरतः एकाकिनः साधोयत्स्यात् तदर्शयति-दुष्टं यातं दुर्यातं, गमनक्रियाया गर्हा, गच्छत एवानुकूलप्रतिकूलोपसर्ग-12
सद्भावादहन्नकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजवाच्छेदवत्, तथा दुष्टं पराक्रान्तम्-आक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेष्याश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्पोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराकान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षो- रिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात्, तत्र श्रुताव्यको येनाचारम-18 कल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षाद्गच्छगतानां तन्निर्गतानां च विंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः||
इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावा8 दिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तेन| कुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम् ,
अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्या भाषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि-ए४ काकी पर्यटन् यदीर्यापथं शोधयति ततः वायुपयोगाश्यति तदुपयुक्तश्चेनेर्यापथं शोधयेदित्यादिकाः शेषा अपि||
समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि
F-%
ARS
GRONACSC
~431~#