________________
आगम
(०१)
प्रत
सूत्रांक
[१५२]
दीप
अनुक्रम [१६५ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१५२ ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
स चायम्- 'जे नो पुब्बुद्वायी पच्छानिवाती, तथाहि--उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति । चतुर्थभङ्गदर्शनाय स्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनाभावि - त्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभङ्गपतिता युक्ता वक्तुं, तथाहि तेषां सावद्ययोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह- 'सोऽपि शाक्यादिर्गणः पञ्चमहातभारारोपणाभावेन सावद्ययोगानुष्ठानतया | नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चानिपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद्, आनव द्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिन्नृपमारकवत् । अन्येऽपि ये सावद्यानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह-येऽपि स्वयूथ्याः पार्श्वस्यादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वाश्रिता अम्वेषयन्ति वा तेऽपि गृहस्थ तुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह
Jan Estication Untamal
एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चैव जुज्झाहि, किं ते जुज्झेण बज्झओ ? (सू० १५३ )
For Parna Prva Use Onl
~423~#
www.anditary.org