________________
आगम
(०१)
प्रत
सूत्रांक
[१५३]
दीप
अनुक्रम [१६६ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१५३], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
।। २१० ॥
श्रीआचा- 2 'एतद्' यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' राङ्गवृत्तिः कथितम् । इदं चान्यत्मवेदितमित्याह - 'इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् 'आज्ञां' तीर्थकरोपदेशमाका(शी०) है ङ्गितुं शीलमस्येत्याज्ञाकाङ्क्षी - आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः ? - 'पण्डितः' सदसद्विवेकज्ञः 'अस्तिहः' स्नेहरहितः । | रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यलवान् स्यादित्येतदाह - पूर्वरात्र-रात्रेः प्रथमो यामोऽपररात्रं- रात्रेः पाश्चात्यः एतद्यामद्वयमपि यतमानः' सदाचारमाचरेत्, मध्यवर्त्तियामद्वयमपि यथोक्तविधिना स्वपन वैरात्रादिकं विदध्यात्, राते त्रियतनाप्रतिपादनेन चापि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् । किं च - 'सदा' सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमं वा यदिवा चतुर्द्धा शीलं - महाव्रतसमाधानं तिस्रो गुप्तयः पञ्चेन्द्रि यदमः कषायनिग्रहश्चेत्येतच्छीलं सम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाशिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील निर्व्रतानां च नरकादिपातविपाकमाकर्ण्यागमात्, 'भवेत्' स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझञ्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्मं श्रुत्वा स्यात् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यज्जीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व
Etication matinal
For Parts O
~424 ~#
लोक० ५
उद्देशकः३
॥ २१० ॥
www.indiary.org