________________
आगम
(०१)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम [१६४ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१५१], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात् कथमपरिग्रहभावः स्वादित्याह- 'सोच्चा' इत्यादि 'वई'त्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डितानां' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचितपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थ| कृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथावसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह- 'समिय'त्ति 'समता' समशत्रु मित्रता तयाऽऽर्द्धर्मः प्रवेदित इति उक्तं च--"जो चंदेणेण बाहुं आलिंपइ वासिणा व तच्छेति । संधुणइ जो अ जिंदति महेसिणो तत्थ समभावा ॥ १ ॥ यदिवाऽऽर्येषु देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्- "जहा पुण्णस्स कत्थइ तहा तुच्छरस कत्थई "त्यादि, अथवा शमिनो | भावः शमिता तथा सर्वहेयधर्म्मारातीयवर्त्तिभिः आयैः प्रकर्षेणादौ वा धम्म वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अभ्यैरपि स्वाभिप्रायेण धर्म्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थं भगवाने वाह'जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः - कर्म्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः - अष्टप्रकार कर्म्मसन्ततिरूपः स 1 यन्दनेन बाहू माजिम्पति वास्या वा तक्ष्णोति । संस्तीति यक्ष निन्दति महर्षयस्तत्र समभावाः ॥ १ ॥
Jan Estucation Intemational
For Pantry Use O
~421~#
www.indiary.org