________________
आगम
(०१)
प्रत
सूत्रांक
[१४५]
दीप
अनुक्रम
[१५८]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४५],निर्युक्तिः [२४५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
परिपच्यमानो वा विषयपिपासया रमते, कैः १-पापैः कर्मभिः, विषयार्थी सावद्यानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह — असरण 'मित्यादि, कामाग्निना पापैर्वा कर्म्मभिः परिपश्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति । आस्तां तावदन्ये, प्रत्रज्यामध्यभ्युपेत्य केचिद्विषयपिपासार्त्तास्तांस्तान् कल्काचाराना चरन्तीति दर्शयितुमाह- 'इहमेगेसि मित्यादि, 'इह' मनुष्यलोके एकेषां न सर्वेषां चरणं चर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपापण्डिकादेर्विषय कषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्ता न विद्यते, सा हि रागद्वेषविरहाद्भवति, न च तद्रहितस्याप्रशस्ततेति । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पि - कस्य चैकाकिनः सङ्घादिकार्यनिमित्तान्निर्गतस्य भावतरंतु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुयन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्यादाहरणं, तद्यथा - पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसदृश विग्रहः षष्ठभक्तेन तद्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगह्वरेऽष्टमभक्तेन तपःकर्म्मणाऽऽतापनां विधत्ते तस्मै च ग्रामनिर्गमपथवर्त्तिने शीतोष्ण सहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, स च तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद्, दुष्करं च परगुणोत्कीर्त्तनमितिकृत्वा तस्यापि सपर्यादिकं व्यधात्, तदेवमाभ्यां पूजाख्या
Jain Estication Intemational
For Pantry Use Only
~ 407 ~#
www.indiary.org