________________
आगम
(०१)
प्रत
सूत्रांक
[१३६ ]
दीप
अनुक्रम [ १४९ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [३], मूलं [१३६],निर्युक्ति: [२३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
- दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुद्यते तज्जानीहि, तज्जनितकर्म्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः आगामि दुःखस्वरूपमाह - 'पुढो' इत्यादि, पृथक् सप्तमनरकपृथिवीसम्भवशीतोष्ण वेदना कुम्भीपा का दियातनास्थानेषु 'स्पर्शान्' दुःखानि चः समुच्चये, न केवलं कोषाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यागामीनि पृथग् दुःखानि च स्पृशेद्-अनुभवेत् तेन चातिदुःखेन परोऽपि लोको दुःखित इत्येतदाह-- 'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमा| नसदुःखापनं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं 'पश्य' विवेकचक्षुषाऽवलोकय । ये त्वेवं न ते किम्भूता भवन्तीत्यत आह--'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाभ्युपशमान्निर्वृताःशीतीभूताः पापेषु कर्म्मसु 'अनिदानाः' निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह - 'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्विदितागम सद्भावः सन्न प्रतिसवले:- कोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, सम्यक्त्वाध्ययने तृतीयोदेशकटीका समाप्तेति ।
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके निरवद्यं तपोऽभिहितं तच्चा| विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनाया तस्यास्योद्देश स्यादि सूत्रम् -
Estication tamational
चतुर्थ अध्ययने चतुर्थ उद्देशक: 'संक्षेप वचन' आरब्ध:,
For Par at Use Only
~387 ~#
jandinary org