________________
आगम
(०१)
प्रत
सूत्रांक
[१३३]
दीप
अनुक्रम [१४६ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [२], मूलं [१३३],निर्युक्तिः [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
* यदिवा पूर्व प्राश्निकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह- 'पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि किं 'भे' युष्माकं 'सात' मनआह्लादकार दुःखमुतासातं मनःप्रतिकूलं?, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकवाधा स्याद्, अथ चासातमित्येवं ब्रूयुः ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रावादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात् 'अपिः' सम्भावने, सम्भाव्यते एतद्भणनं यथा न केवलं भवतां दुःखमसातं, सर्वेपामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिर्वृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं तद्धनने च दोषः, यस्त्वदोषमाह तदनार्थवचनम् । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववानियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे
खुड्डग पायसमासं धम्मकपि य अर्जपमाणेणं । छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७ ॥ अनया गाथया सङ्क्षेयतः सर्वे कथानक मावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्क्षेपस्तजल्पता धर्म्मकथां च 'छन्नेन' प्रकटेन 'अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-चम्पायां नगर्यो सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चाई| दर्शनभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोतः- धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्वाह
Jain Estication Intl
For Fanart Use Only
मुद्रण-दोषात् '२२७' इति निर्युक्तिः क्रम द्वितीय वारं लिखितं ।
~377 ~#
www.sendiary.org