________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२६],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१२६]
दीप अनुक्रम [१३९]
परिणतः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाकाय-1 लक्षणः, उपरतो दण्डो येपो ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते-सङ्ग्रह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह, उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्पन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत् 'तथ्य' सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथामरूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति-तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सवें प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षणोच्यते मोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात्सर्वभूतानी त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह
तं आइत्तु न निहे न निक्खिवे जाणितु धम्मं जहा तहा, दिट्रेहिं निव्वेयं गच्छिज्जा,
नो लोगस्सेसणं चरे (सू० १२७) 'तत्' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'न निहेति न गोपयेत् तथाविधसंसर्गा
wnloadmarang
~363~#