SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२६],नियुक्ति: [२२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२६] दीप अनुक्रम [१३९] आहा-"सत्तरसयमुफोर्स इअरे दस समयखेत्तजिणमाणं । चोत्तीस पढमदीये अणंतरऽद्धेय ते दुगुणा ॥१॥"के इमे 'अर्हन्तो' अईन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते | यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षण संशोत्यपनोदायान्तेवासिनो जीवाजीवाववन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपय&ान्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति-यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः || द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतग्रामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः-नारकतिर्यग्नरामरलदिक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्था चैते शब्दाः 'तत्त्वभेदपर्यायैः। प्रतिपादन मितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या भृत्यदासदास्यादिममस्वपरिग्रहतो न परितापयितव्याः शारीरमानसपीडोत्सादनतो नापद्रावयितव्याः प्राणव्यपरोपणतः 'एषः' अनन्तरोक्तो 'धम्मों' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरपार्थत्वाद्विशेषणं दर्शयति-'शुद्धः' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपश्चेन्द्रियवधानुमतिकलङ्कासितः, wwwandltimaryam ~361~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy