________________
आगम
(०१)
प्रत
सूत्रांक
[११६] गाथा - १
दीप
अनुक्रम
[१२६+
१२७]
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [ ११६ / गाथा - १], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १६६ ॥
स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥ १ ॥” सैवात्मगुप्तता कथं स्यादिति चेदाह - 'विराग' मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महता - दिव्यभावेन ययवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुलं चेति क्रिया पूर्ववत्, ॐ नागार्जुनीयास्तु पठन्ति – “विसयंमि पंचगंमीवि, दुबिहंमि तियं तियं । भावओ मुहु आणित्ता, से न लिप्पड़ दोसुवि ॥ १ ॥ शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः परमार्थतः सुष्ठु ज्ञात्वा मुनिः पापेन कर्म्मणा द्वाभ्यामपि रागद्वेषाभ्यां न लिप्यते, तदकरणादिति भावः स्यात् किमालम्ब्यैतत्कर्त्तव्य मि त्याह- 'आग' मित्यादि, आगमनम् आगतिः सा च तिर्यङ्मनुष्ययोश्चतुर्द्धा चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोर्द्वेधा, तिर्यग्मनुष्यगतिभ्यामेवागमन सद्भावाद्, एवं देवगतिरपि मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्वामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्ती-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह - 'से' इत्यादि, सः- आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव तदवस्थस्य चैतानि छेदनादीनि विशेषणानि 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति,
Jan Estication Intematonal
For Pana
~336 ~#
शीतो० ३ उद्देशकः ३
॥ १६६ ॥