SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [११६] गाथा - १ दीप अनुक्रम [१२६+ १२७] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [ ११६ / गाथा - १], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः समयं तत्थुबेहा अप्पाणं विप्पसायए- अणन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥ १ ॥ विरागं रूवेहिं गच्छिजा महया खुएहि य, आगई गई परिष्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिजइ न भिज्जइ न उज्झइ न हमइ कंचणं सव्वलोए (सू० ११६ ) समभावः समता तां तत्रोत्प्रेक्ष्य पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानपणीयपरिहरणं लजादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, (यदिवा समयम्-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिना|नुष्ठानं तत्सर्वं मुनिभावकारणमिति भावार्थ:, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद्' विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्ट्या वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च- 'अणण्णपरम' मित्याद्यनुष्टुप् न विद्यतेऽन्यः | परमः - प्रधानोऽस्मादित्यनन्यपरमः - संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि, | यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह- 'आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा' सर्वकालं यात्रा - संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहमतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तं च- "आहारार्थं कर्म कुर्यादनिन्द्यं, Jan Estucation anal For Pantry Use Only ~335~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy