________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१११],नियुक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
।
प्रत
सूत्रांक
*
[१११]
*
एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते
समिए सहिए सया जए कालखी परिवए, बहुं च खलु पावं कम्मं पगडं (सू० १११) 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्मदशी मरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-'से दाहु' इत्यादि, 'सः' अनन्तरोक्तो मुनिष्टं संसाराजय सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च|'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके या परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेपरहितमसइक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्वायमनन्तरोको गुणोपन्यास इत्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकातितुं शी-1 लमस्येति कालाकाली स एवम्भूतः परिः-समन्तात्बजेपरिव्रजेत् , यावत्सोयागतं पण्डितमरणं तावदाकाडमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वकेदिति । स्यादेतत्-किमर्थं एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मक बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्था
दीप अनुक्रम [११९]
**
*
*
wwwsaneitnam.org
~325~#