________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९७], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवा कारणे का-2 ४ोपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्मणा वयः-अवस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातवालादिव्या
धिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः। कापीयन्ते इति दर्शयितुमाह-जंसिमें' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतर्गतिकसंसारे एके-10 दन्द्रियाद्यवस्थाविशेषे वा 'इमें प्रत्यक्षगोचरीभूताः 'प्राणा'इत्यभेदोपचारात्याणिनः 'प्रव्यथिताः' नानाप्रकारैर्व्यसनोपनि-13
पातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमतां गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते || नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः-शारीरमानसदुःखोत्सादनं तस्मै नो कर्म कुर्याद्, येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह-'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूपस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्दूवातात्मकसंसारतरुवीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयः पाणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह
लस
wwwandltimaryam
~287~#