________________
आगम (०१)
प्रत
सूत्रांक
[९७]
दीप
अनुक्रम [९]
श्रीआचाराङ्गवृत्तिः (शी०) ॥ १४१ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [६], मूलं [९७], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
स्वम्यतरस्मिन् कल्पते प्रभवति, पौनःपुन्येनोत्पद्यत इत्यर्थः स्यात् किमर्थमेवंविधं पापकं कर्म्म समारभते ?, तदुच्यते'सुहडी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा कायेन धावनवलगनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि सुखार्थी सन् कृध्यादिकर्म्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्निं धर्मापनोदार्थं वायुं आहारार्थी वनस्पतिं त्रस कार्य वेत्य संयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह - 'सएण' इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्म्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्र्म्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति उक्तं च“दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ १ ॥” यदिवा 'मूढो' हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति - हितमप्यहितबुद्ध्याऽधितिष्ठत्यहितं च हितबुद्धयेति, एवं कार्याकार्यपथ्यापध्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति मोहोऽज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि काल पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह - 'सएण ' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन - मद्यादिना 'विविध' मिति मद्यविषयकपायवि कथानिद्राणां स्वभेदग्रहणं तेन पृथग विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण 'वय मिति वयन्ति - पर्यटन्ति
Jain Estication tytumanl
For Pantry Use Only
~286 ~#
लोक.वि. २
उदेशका ६
॥ १४१ ॥