________________
आगम
(०१)
177284
प्रत
सूत्रांक
[८]
॥१॥
दीप
अनुक्रम
[१००+
१०१]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १४२ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९८, गाथा- १], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
जे माइयमई जहाइ से चयइ ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिज्जासि तिबेमि ॥ नारई सहई वीरे, वीरे न सहई रतिं । जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ ॥ १ ॥ (सू०९८) ममायितं मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायितं' स्वीकृतं परिग्रह 'जहाति' परित्यजति, इह द्विविधः परिग्रहो - द्रव्यतो भावतश्च तत्र परिग्रहमति निषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काका नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति ततश्चेदमुक्तं भवति- सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावान्नगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमि - त्याह- 'से हु' इत्यादि, यो हि मोक्षैकविनहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः - अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्यारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह--- 'जस्स' इत्यादि, यस्य 'ममायितं' स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च 'तं' इत्यादि, 'तं' पूर्वव्यावणितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञात
For Pantry Use Only
लोक. वि. २
उद्देशका ६
~288~#
॥ १४२ ॥
www.indiary.org
( उक्त सूत्र ९८ में एक सूत्र और एक गाथा, दोनों सम्मिलित है, इसीलिए हमारे प्रकाशनमे दोनों को अलग करके क्रम दिए है )