________________
आगम (०१)
प्रत
सूत्रांक
[९४]
दीप
अनुक्रम
[ ९६]
श्रीआचा राङ्गवृत्तिः (शी० )
॥ १३८ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [९४], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चे हैव शान्ति न लभते यत आह- 'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवत्र्त्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहम कार्यमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च--"इदं तावत् करोम्यद्य, श्यः कर्त्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि प्रेत्यार्थं नावबुध्यते ॥ १ ॥ " अत्र दधिघटिकादमकद्रष्टान्तो वाच्यः स चायं द्रमकः कश्चित् कचिन्महिषीरक्षणावाप्तदुग्धः तदधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवं चिन्तामनोरथव्याकुलीकृतान्तःकरण इति तदद्ध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः - किंकर्त्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः - संसारस्तं कषतीति तदभिमुखो यातीति कासंकपः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह- 'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढं' करणं कृतं तेन मूढःकिंकर्त्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि - "सोडं सोवणकाले मज्जणकाले य मज्जिर्ड लोलो । जेमे च
१ खपितुं शयनकाले मञ्जनका न म ठोठ (चपलः) । जेमितुं च वराको मनकाले न शक्नोति ॥ १ ॥
Etication Intemational
For Pantry Use Onl
~280 ~#
लोक.वि. २ उद्देशकः ५
॥ १३८ ॥