________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९४], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
[९४||
Iबराओ जेमणकाले नचाएइ ॥१॥" अत्र मम्मणवणिग्रहष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्त-1 हात्तत्करोति येनात्मनो वैरानुषो जायत इति, आह च-'पुणो तं करेई'त्यादि, मायावी परवञ्चनबुझ्या पुनरपि तत्
लोभानुष्ठान तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च-"दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः॥१॥" किं पुनः कारणमसुमास्तत्करोति येनात्मनो वैरं बर्द्धते?, इत्याह-'जमिण' इत्यादि, 'यदिति यस्मादस्यैव-विशसरोः शरीरकस्य परिवहणार्थ प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः शतशो मन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्धयतीति, यदिवा यदिदं मयोपदेशपायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिवहणार्थम्, इदं चापरं कथ्यते–'अमराय' इत्यादि अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसकोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रद्धी' महती चासो श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिका कारणं ?, केन वा सार्द्धमुषितेति, सा स्ववादीद्-अमरेणेति, कथमसावमर इत्युक्त तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्या
352- 655
अनुक्रम [१६]
wwwandltimaryam
~281-23