SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [९३] दीप अनुक्रम [५] श्रीआचा राङ्गवृत्तिः (शी०) ॥ १३७ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [९३], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः उद्देशकः ५ बद्धान् द्रव्यभाववन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्तयाऽऽचष्टे - ६ लोक.बि. २ 'जहा अंतो तहा बाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टमकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि यथा वा वाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा - कथमसी मोचयतीति चेत्तस्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह - 'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः - मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च- “यदि नामास्य कायस्य, यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ १ ॥” इति, यथा वा बहिरसारता तथाsतरपीति । किं च- 'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि - पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान् इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परि च्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति – 'पुढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितत्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं ? – 'पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छोतोव्रणरोमकूपानि 'पण्डितः' अवगततवः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं च- "मंसहिरु १ मांसास्थिरुधिरस्नाश्ववनद्धकल्मषमे दमनाभिः । पूर्णे चर्मको दुर्गन्धेऽभिसे ॥ १ ॥ संचारक (वत्) यन्त्रगलद्वचमूत्रान्तस्येदपूर्वे । देदे भवेत् किं रागकारणं अनुचिती ॥ १ ॥ Jan Estication Intemational For Party Use Onl ~278 ~# ॥ १३७ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy