________________
आगम
(०१)
प्रत
[ ९३]
दीप
अनुक्रम [५]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [९३], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तो पू देहंतराणि पासइ पुढोवि सवंताई पंडिए पडिलेहाए (सू० ९३ )
आयतं - दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः- ज्ञानं यस्य स आयतचक्षुः कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किं च - 'लोगविपस्सी' लोकं विषयानुषङ्गावेशाप्तदुःखातिशयं तथा त्यक्तकामावासप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊर्द्धास्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति एतद्दर्शयति- 'लोगस्स' इत्यादि, लोकस्य - धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति येन कर्म्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं यदिवा लोकविदशति - कामार्थमर्थोपार्जनप्रसक्तं गृद्धमभ्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह- 'गहिए' इत्यादि, अयं हि लोको 'गृद्धः' अध्युपपन्नः कामा|नुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तज्जनितेन वा कर्म्मणा संसारचक्रेऽनुपरिवर्त्तमानः- पर्य टन्नायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्त्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च- 'संधि' इत्यादि, इह 'मर्त्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मर्त्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकपायादीन् परित्यजति स एव वीर इति दर्शयति- 'एस' इत्यादि, 'एषः' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोक विभागस्वभावदर्शी भावसन्धेर्वेसा परित्यक्तविषयतर्षो वीरः कर्म्मविदारणात् 'प्रशंसितः' स्तुतः विदिततच्चैरिति । स एवंभूतः किमपरं करोतीति चेदित्याह - 'जे बद्धे' इत्यादि, यो
Estication Intel
For Par at Use Only
~277~#