________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [८९], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रता
८९]
जाणेजा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेद-15 श्चैिवमात्मक:-शुद्धं गृह्णीयादशुद्ध परिहरेदितियावत्, किं तद्विजानीयात् !-वस्त्रं वस्त्रग्रहणेन वस्वैषणा सूचिता, तथा पतगह-पात्रम्, एतब्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्य-12 नेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूंढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा-देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासी नियूढाः, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते-स्थीयते अस्मिन्निति वासन-शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि |
चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः । दाएतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन यावल्लाभं गृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह
लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्तिन मजिजा,
अलाभुत्ति न सोइज्जा, बहुपि लढुंन निहे, परिग्गहाओ अप्पाणं अवसक्किज्जा (सू०९०) । 'लब्धे' प्राप्ते सत्याहारे, आहारमहर्ण चोपलक्षणार्थम् अन्यस्मिन्नपि वस्खौषधादिके 'अनगार' भिक्षुः 'मात्रां जानीयात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा-IC
अनुक्रम [९१]
wwwandltimaryam
~271~#