________________
आगम
(०१)
प्रत
सूत्रांक
[८७]
दीप
अनुक्रम [८९]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [८७], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
इत्यार्थः - चारित्राईः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपर्ण पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः - यथाकालमनुष्ठानविधायी यो यस्य वर्त्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति - सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्याय भिक्षाचर्याप्रतिक्रमणादिकाः असपला अन्योऽन्याबाधया आत्मीय कर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठान विधायी तस्मादसावेव परमार्थं पश्यतीत्याह - 'अदखुसि, तिङ्व्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति पाठान्तरं वा 'अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान् एतदुक्तं भवति यः परस्परावाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेति विधत्ते च स परमार्थ ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह- 'से णाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकरूप्यं 'नाददीत' न गृह्णीयात्राप्यपरमादापयेत् प्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सङ्गालं सधूमं वा नाद्यात्-न भक्षयेनापरमादयेददन्तं वा न समनुजानीयादिति, आह---'सव्वामगंधं' इत्यादि, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्व च तदामगन्धं च सर्वामगन्धं, सर्वशब्दः प्रकारकात्तूर्येऽत्र गृह्यते न द्रव्यकात्सूर्ये, आमम्- अपरिशुद्धं, गन्धग्रह
Jan Estication Intimatinal
For Party Use Onl
~265 ~#