________________
आगम
(०१)
प्रत
सूत्रांक
[८७]
दीप
अनुक्रम [८९]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १३१ ॥
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [८७], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
णेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानात्किमर्थं भेदेनोपादानमिति १, सत्यम्, अशुद्धसामान्यागृह्यते, किं तु पूतिग्रहणेनेहाधाकर्म्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानं, ततश्चायमर्थः- गन्धग्रहणेनाधाकर्म्म १ औदेशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ चैते षडुङ्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्स्त्रर्थ्याभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्धं पूति वा भवति तत्सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः समन्ताङ्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोव्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिषिषेधिषुराह—
अदिस्समाणे कयविक्कयेसु, से ण किणे न किणावए किर्णतं न समणुजाण, से भि क्खू कालन्ने बान्ने मान्ने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने प रिहं अममायमाणे कालाणुट्टाई अपडिण्णे ( सू० ८८ )
क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः कीदृक्षश्च तयोरदृश्यमानो भवति ?, यतस्तयोर्निमित्तभूतद्रव्याभावादकिचनोऽथवा क्रयविक्रययोरदिश्यमानः - अनपदिश्यमानः कश्च तयोरनपदिश्यमानो भवति । यः क्रीतकृतापरि
Jain Estication International
For Parts Only
~266~#
लोक.वि. २ उद्देशका ५
॥ १३१ ॥
www.india.org