________________
आगम (०१)
प्रत
सूत्रांक
[८६]
दीप
अनुक्रम [८]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [८६], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचादेशः प्राचूर्णकस्तदर्थं कर्म्मसमारम्भाः कियन्त इति सम्बन्धः, तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः राङ्गवृत्तिः प्रहेण कार्य तथा 'सामासाए'ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थे, तथा 'पायरासाए'त्ति प्रातरशनं प्रातराश(शी०) ५ स्तस्मै, कर्म्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह - 'सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिः* विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः - अविनाशिद्रव्याणां अभया४ सितामृद्धीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयश्च सन्निधिसन्निचयं, प्राकृतशैल्या पुलिङ्गता, अथवा सन्निधेः सन्निचयः सन्निधिसन्निचयः, स च परिग्रहसंज्ञोदयादाजीविकाभ्यासाद्वा धनधान्यहिरण्यादीनां क्रियत इति । स च किम* र्थमित्याह – 'इह्' इत्यादि, 'इहेति मनुष्यलोके 'एकेषा' मिलोके कृतपरमार्थबुद्धीनां 'मानवानां' मनुष्याणां 'भोजनाय' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्म्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्मामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्त्तव्यमित्याह
॥ १३० ॥
समुट्टिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावर न समजाणइ, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए (सू० ८७ ) सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्म्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं - गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोsनगारः आरायातः सर्वहेयधम्र्मेभ्यः
Jain Estication Intimanal
For Pantry Use Only
~264~#
लोक.वि. २ उद्देशका ५
॥ १३० ॥