________________
आगम
(०१)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम [७२]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [७१], निर्युक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
यावदस्य विशरारोः कायापशदस्य श्रोत्र विज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रम्राणरसन स्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्यं प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृटैर्ज्ञानेरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह- 'आय' इत्यादि, आत्मनोऽर्थ आत्मार्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं प्रयोजनमात्मार्थं तच्च चारित्रानुष्ठानमेव, अथवा आयतःअपर्यवसानान्मोक्ष एव स चासावर्थश्वायतार्थोऽतस्तं, यदि वाऽऽयत्तो- मोक्षः अर्थः- प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ता हिसिपू सं- सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभि क्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासये:' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम' इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद् भावयेद्रञ्जयेत्, आयतार्थ वा मोक्षाख्यं सम्यग् - अपुनरागमनेनान्विति यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद् 'अधिष्ठापयेद् । 'इति' परिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह यद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः ॥
Jan Estication Intematonal
For Pantry Use Only
~ 225 ~#
www.india.org