________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६७], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुनाक
[६७]
RECESSAGAR
इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह-तओ से' इत्यादि, 'ततो' द्रव्यसनिधिसन्निचयादुत्तरकालमुपभोगावसरे 'से'तस्य बुभुक्षोः 'एकदेति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावितवेदनीयकम्र्मोदये 'रोगस-1 मुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मन्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह-'जेहिं' इत्यादि, 'यैः'मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः 'एकदा'रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तान्निजान्पश्चात्परिभवोत्थापितविवेका 'परिहरेत् त्यजेत्, तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वान ब्राणाय भवन्तीति दर्शयति-'नाल मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यक्करणेन रोगवेदनाः सोढच्याः? इत्याह
जाणित्तु दुक्खं पत्तेयं सायं (सू०६८) ज्ञात्वा प्रत्येक प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च-"सह कलेवर ! दुःखमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥१॥" यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्ण न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय | इत्येतद्दर्शयति
अनुक्रम
[६८
~221~#