________________
आगम
(०१)
प्रत
सूत्रांक
[६९]
दीप
अनुक्रम
[ ७०]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १०९ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६९], निर्युक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अणभिक्कतं च खलु वयं संपेहाए (सू० ६९ )
चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य " आयङ्कं समणुवासेज्जासि” इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति
खणं जाणाहि पंडिए ( सू० ७०)
क्षणः-अवसरो धर्म्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहार दोषदुष्टानां जरावालभावरोगाणामभावे सति तं क्षणं 'जानीहि' अवगच्छ 'पण्डित' आत्मज्ञ !। अथवाऽवसीदन् शिष्यः प्रोत्साह्यते हे अनतिक्रा न्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि' अवबुध्यस्व, तथाहि द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसा| रोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिदेशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषडूिंशेषु जनपदेष्वित्यादिकः क्षेत्रक्षण:क्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां
Estication Intel
For Pantry Use Only
~222~#
लोक.वि. २ उद्देशकः १
॥ १०९ ॥
www.india.org