________________
आगम
(०१)
ཎྜལླཱ ཡྻ
[ ६४ ]
अनुक्रम [ ६५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६४], निर्युक्तिः [१८६] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गूहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्म्मवलीकः स नैव शोभते, उक्तं च- "न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः १ । अथ तेषु च वर्त्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥ १ ॥ जं जं करेइ तं तं न सोहए जोन्वणे अतिक्कंते । पुरिसस्स महिलियाइ व एकूकं धम्मं पमुत्तूर्णं ॥ २ ॥” गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
इच्चेवं समुट्टिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमायए वओ अच्चेति जोव्वणं व ( सू० ६५ )
अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह - 'इच्छेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूपायै प्रत्येकं च शुभाशुभ कर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः - सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहो बिहारो - यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्युत्तरेण सण्टङ्कः, किंच- 'अंतरं चेत्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभ सर्वविरत्यादिकं, चः समुच्चये, खलु१] यत्करोति तन शोभते यौवनेऽतिक्रान्ते पुरुषस्य महिलाया वा एक धम्मं प्रमुध्य ॥ २ ॥
Etication Intimational
For Parts Only
~217~#
www.india.org