________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६१], नियुक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६१]]
यदतिकान्त मयेति । उक्तः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः । सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधान मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाञ्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच मोक्षालाभः, तस्मान्न ज्ञानं प्रधान, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवहिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदाव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माचरणं प्रधानमित्यध्यवस्थामः ।
अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्-"हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दहो, ४ दाधावमाणो य अंधओ ॥१॥" तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समु|दितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्-"ऐवं सब्वेवि णया मिच्छादिही सपक्वपडि
बद्धा । अण्णोण्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥१॥" तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं दाचरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह-सव्वेसिपि णयाणं बहुविधवत्त
१हत ज्ञानं क्रियाहीनं हताशानतः किया । पश्यन् पर्दग्धो भाषश्चान्धः ॥ १॥ २ एवं सर्वेऽपि नयाः सिध्यारष्टयः सपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एव सम्यक्त्वम् ॥१॥
SUASANATATAKUTSARAKS6
अनुक्रम [६२
wwwanditimaryam
~163~#