________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम
[६२]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [७], मूलं [६१], निर्युक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
॥ ८० ॥
श्रीआचा * स्वयं णिसामेसा । तं सब्वणयविमुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चराङ्गवृत्तिः रणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियो(शी०) ू गोऽस्ति ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षेपात् ज्ञानचरणयोरेव स्थातव्यमिति * निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत् न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात् चक्षुर्ज्ञानसमन्वितपङ्गपुरुष अर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानं, नगरदाह निर्गमे पनबन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षङ्गीवनिकायस्वरूपरक्षणोपाय गर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतश्चावघृतं भवति श्रद्धामसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रदधानस्य सर्वे यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्त्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महात्रतारोपणप्रत्ययं कायोत्सर्गमुत्सायैकैकं महात्रतमादित आरभ्य त्रिरुच्चारयेद् यावनिशिभुक्तिविरतिरविकला त्रिरुच्चारिता, पश्चादिदं त्रिरुच्चरितव्यम् - 'ईच्चेइयाई पंच मह याई राइभौयणवेरमणछडाई अचहियहयाए उपसंपजित्ता णं विहरामि पश्चाद्वन्दनकं दत्वोत्थितोऽभिधत्ते अवनताङ्ग ॥ ८० ॥ १ इत्येतानि पक्ष महानतानि रात्रिभोजनविरमणपष्ठानि आत्महितार्थायोपसंपय विरहानि.
Jan Estication Intl
For Pantry
~164~#
शस्त्र. परि १ उद्देशकः ७
www.indiary.org