________________
आगम
(०१)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम
[ ५५ ]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ७४ ॥
४
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [५४...], निर्युक्तिः [१६७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छन्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात् परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः सर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायं चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत् तिर्यगेव गमननियमाभावात् अनियमित विशेषणोपादानाञ्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः 'अनुश्रेणिगति' ( तत्स्वा० अ० २ सू० २७) रिति वचनात् एवमेष वायुः घनशुद्धवातादिभेदोऽशखोपहतश्चेतनावानवगन्तव्य इति ॥ परिमाणद्वारमाह
जे वायरपज्जन्ता पयरस्स असंखभागमित्ता ते । सेसा तिनिवि रासी बीसुं लोगा असंखिजा ॥ १६८ ॥ ( दारं)
ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्घयेयभागवर्त्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्| पृथगसङ्घयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः - बादराएकायपर्याप्तकेभ्यो वादरवायुपर्याप्तका असङ्ख्येयगुणाः बाद पकायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणाः सूक्ष्मापकाया पर्याप्तकेभ्यः सूक्ष्मवाय्वपर्यातका विशेषाधिकाः सूक्ष्मापकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्यातका विशेषाधिकाः ॥ उपभोगद्वारमाहवियणघमणाभिधारण उस्सिचणफुसणआणुपाणू अ । बाथरवाउकार उपभोगगुणा मणुस्साणं ॥ १६९ ॥ व्यजनभस्त्राध्माताभिधारणोत्सिञ्चन फूत्कारप्राणापानादिभिर्वादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधं द्रव्यशस्त्राभिधित्सयाऽऽह
Jan Estication Intemational
For Pantry at Use Only
~152~#
शस्त्र. परि१
उद्देशकः ७
॥ ७४ ॥