________________
आगम
(०१)
प्रत
सूत्रांक
[ ५४ ]
दीप अनुक्रम [ ५५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [५४...], निर्युक्तिः [१६५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दुविहा उ वाउजीवा सुहुमा तह बायरा उ लोगंमि । सुहुमा य सव्वलोए पंचैव य बाघरविहाणा || १६६५ ॥ वायुरेव जीवा वायुजीवाः, ते च द्विविधाः सूक्ष्मवादरनामकर्मोदयात् सूक्ष्मा बादराश्च तत्र सूक्ष्माः सकललोकव्यापितया अवतिष्ठन्ते, दत्तकपाटस कलवातायनद्वारगेहान्तर्द्धमवत् व्याघ्या स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति ॥ बादरभेदप्रतिपादनायाह
उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवाजविहाणा पंचविहा चण्णिया एए ॥। १६६ ।। स्थित्वा स्थित्वात्कलिकाभियों वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा-भम्भा तद्वत् गुञ्जन् यो वाति स गुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमित्येते बादरवायुविधानानि - भेदाः 'पञ्चविधाः पञ्चप्रकारा व्यावर्णिता इति ॥ लक्षणद्वाराभिधित्सयाऽऽह
जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं । एओवम आएसो बाएऽसंतेऽवि रूवंम ॥ १६७ ॥ यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्व्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते - नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्द्धानमज्जन विद्यामन्त्रैर्भवति मनुष्याणां न च नास्तित्वमचेतनत्वं चेति, ऐतदुपमानो वायावपि भवति १ एतदुरमानेन प्र.
Etication matinal
For Pantry Use Only
~151~#