SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [१३], नियुक्ति: [१६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३] दीप अनुक्रम [५४] दापमक्षतमव्यक्त व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनाममता, अथवा भविषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विर्ष जीयति, तथा अजिनार्थ-चित्रकव्याघ्रादीन व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिश्वपि वाच्यं, मांसाई सूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मन्ति, पित्ताई मयूरादयः, वसार्थ व्याघ्रमकरवराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालार्थ चमर्यादयः, शृङ्गार्थ रुरुखगादयः, तस्किल शृङ्ग पवित्रमिति याज्ञिका गृहणन्ति, विषाणार्थ हस्त्यादयः, दन्तार्धं शृगालादय: तिमिरापहत्वात्तद्दन्तानां, दंष्ट्रार्थ वराहादया, नखार्थ व्याघ्रादयः, स्नायवर्थ गोमहिष्यादयः, अस्थ्यर्थ शङ्खशुक्त्यादयः, अस्थिमिजार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया प्रन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेपोऽस्मत्स्वजनान्सिहः सोऽरिर्थाऽतो प्रन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति मन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सादिक व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्य उद्देशकार्थमुपसञ्जिहीराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एस्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवन्ति, तं परिपणाय मेहावी व सयं तस१ विषाणार्थ गालादयः, दन्ताय रस्त्यादयः इति प्र०, परं 'विषाणं तु भड्गे कोलेभदन्तयोः' इलनेकार्थवणनानायमसुन्दरः. 454-- - wwwandltimaryam ~149~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy