________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [५०], नियुक्ति: [१६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[५०]
-9845445 पर
दीप अनुक्रम [५१]
जीवाणं सब्वेसि सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि, तसंति
पाणा पदिसो दिसासु य (सू० ५०) एवमिमं त्रसकायमागोपालाङ्गनादिप्रसिद्ध निश्चयेन ध्यात्वा निाय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद् बबीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-पडिहालेहेत्त'त्ति प्रत्युपेक्ष्य-दृष्टा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति 'प्रत्येक मित्येकमेकं सकार्य प्रति परिनिर्वाणसुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुङ्गे सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां प्रत्येकसाधारणसूक्ष्मवादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छनजीपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषां सत्त्वानां-पृथिव्यायेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च-'प्राणा द्वित्रि-13 चतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः ॥ १ ॥” इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणामाणाः कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येक परिनिवोर्ण-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-कि
wwwonditimaryam
~145~#