________________
आगम (०१)
ཛམྦྷཡྻ
[४८]
अनुक्रम [४९ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [६], मूलं [४८], निर्युक्ति: [१६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
उद्देशकः ६
उपपातजाः, अथवा उपपाते भवा औपपातिकाः- देवा नारकाश्च, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, ५ अध्ययनं १ राङ्गवृत्तिः * एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं " सम्मूर्छनगर्भोपपाता जन्म" ( तत्त्वार्थ० अ० २ सू० ३२) रसस्वेदजोद्भिज्जानां (शी०) सम्मूर्छनजान्तः पातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामोपपातिकान्तःपातित्वात् इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणी निप* तन्ति, नैतद्व्यतिरेकेणान्ये सन्ति एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधि* गम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति- 'एस संसारोति पवुञ्चति एषः - अण्डजादिप्राणिकलापः संसारः प्रोच्यते नातोऽन्यस्त्रसानामुयत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह
॥ ७० ॥
मंदस्सावियाणओ ( सू० ४९ )
मन्दो द्विधा - द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा भावमन्दोऽप्यनुपचितबुद्धिर्वालः कुशास्त्रवासितबुद्धिर्वा, अथमपि समुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतो - हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह
निज्झाइत्ता पडिलेहिता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं
Jan Estication Intemational
For Parts Onl
~144 ~#
॥ ७० ॥