________________
आगम
(०१)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[५१]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [६], मूलं [५०], निर्युक्तिः [१६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
॥ ७१ ॥
श्रीआचा-विशिष्टम् ? –'असातम्' असद्वेद्यकर्माशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परिराङ्गवृत्तिः : निर्वाणमपरिनिर्वाणं समन्तात् शरीरमनः पीडाकरमित्यर्थः, तथा 'महाभय' मिति महच्च तद्भयं च महाभयं नातः (शी०) परमन्यद् भयमस्तीति महाभयं तथाहि सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्रत्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह - 'तसंती' त्यादि, एवंविधेन च असातादिविशेपणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति - उद्भिजन्ति प्राणा इति प्राणिनः कुतः पुनरुद्विजन्तीति दर्शयति- प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थान श्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काका-न काचिदिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा यस्यां स्थिताः कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षाणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्त्तमानो जन्तुर्न त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः, दिग्विदिग्व्यवस्थिता स्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्त्रस्यन्ति १ - यस्मातदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं ?, ते तानारम्भन्त इत्यत आह
Jan Estication Intemational
तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया ( सू० ५१ ) 'तत्र तत्र' तेषु तेषु कारणेषूसन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु पश्येति शिष्य
For Pantry Use Only
~146 ~#
अध्ययनं १
उद्देशकः ६
॥ ७१ ॥