________________
आगम
(०१)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [४१]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ ५ ], मूलं [४०], निर्युक्ति: [१५१] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते तच साधूनां न सम्भवति, तदभावात्, आवर्त्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति, सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् - "कोण सोक्खेहिं सद्देहिं पेम्मं नाभिनिबेसए" इत्यादि, तथा - " न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १ ॥” कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्द निष्पत्तिरिति, रूपं पुनः काष्ठकर्म्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षूरमणीयं गन्धा अपि हि कर्पूरपाटलालवलीलव| केतकी सरसचन्दनागुरुकक्कोल केलाजातिफलपत्रिकाकेसरमांसीत्वक्पत्रादीनां सुरभयो गन्धेन्द्रियाहादकारिणः प्रादुभवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुर किसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रहादिनो निष्पद्यन्ते अतिबहव इति, तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाट कोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्ष्यन्ति एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्त्ते वर्त्तते, यश्च आवर्त्तवर्त्ती स रागद्वेषात्मकत्वात् गुणेषु वर्त्तत इति, स चावत नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, द्रव्यावर्त्तः स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वचित्प्रविभागे जलपरिभ्रमणं द्रव्यस्यावर्त्तः, १ कर्णसोयेषु शब्देषु प्रेम नाभिनिवेशयेत्.
Etication matinal
For Pantry Use Only
~129~#
*%*-%**% *% *%