________________
आगम (०१)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम
[४०]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ ५ ], मूलं [३९], निर्युक्तिः [१५१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
रएत्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशराङ्गवृत्तिः भागू भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमनुते इति दर्शयति- 'एस : (शी०) ४ अणगारेत्ति पचई' 'एप' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यते इति, किं
॥ ६२ ॥
कृतः प्रकर्षः ?, अनगारव्यपदेशका रणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्ति- 2 ॐ द्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्त्तमाना रागद्वेपविषमविषविघूर्णमान लोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति ॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह
जे गुणे से आवहे जे आवट्टे से गुणे (सू० ४० )
यो 'गुणः शब्दादिकः स आवर्त्तः, आवर्त्तन्ते- परिभ्रमन्ति प्राणिनो यत्र स आवर्त्तः संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नडुलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवर्त्तः, तत्कारणत्वात् अथवैकवचनोपादानात्पुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्त्तते स आवर्त्ते वर्त्तते, यश्चावर्त्ते वर्त्तते स गुणे वर्तत इति, अत्र कश्चिन्वोद्यचक्षुराह-यो गुणेषु वर्त्तते स आवर्त्ते वर्त्तत इति साधु, यः पुनरावर्त्ते वर्त्तते नासौ नियमत एव ॥ ६२ ॥ गुणेषु वर्त्तते यस्मात्साधवो वर्त्तन्त आवर्त्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्त्ते यतयो वर्त्तन्ते न गुणेषु, ४
Esticatonttumational
For Party Use Onl
अध्ययनं १ उद्देशकः ५
~128~#